(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
7.11. अध्यायः 011
Mahabharata - Drona Parva - Chapter Topics
धृतराष्ट्रेण प्रसङ्गाद्भक्त्युद्रेकेण--श्रीकृष्णचरित्रानुकीर्तनम्॥ 1 ॥ धृतराष्ट्रेण बहुधा विचिन्त्य सञ्जयम्प्रति युद्धकथनचोदना॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-11-0x(4284)(45049)
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय।
कृतवान्यानि गोविन्दो यथा नान्याःपुमान्क्वचित्॥ 7-11-1(45050)
संवर्धता गोपकुले बालेनैव महात्मना।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय॥ 7-11-2(45051)
पूतनां शकटं हत्वा केशिनं चैव वाजिनम्।
ऋषभं धेनुकं चैव अरिष्टं च महाबलम्॥ 7-11-3(45052)
दावान्मुक्त्वा महाबाहुर्धृत्वा गोवर्धनं निगिम्।
चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च॥ 7-11-4(45053)
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्।
मुरुं चान्तकसङ्काशमवधीत्पुष्करेक्षणः॥ 7-11-5(45054)
तथा कंसो महातेजा जरासन्धेन पालितः।
विक्रमेणैव कृष्णेन सगणः पातितो रणे॥ 7-11-6(45055)
सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्॥ 7-11-7(45056)
बलदेवद्वितीयेन कृष्णेनामित्रघातिना।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्॥ 7-11-8(45057)
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः।
आराधितः सदारेण स चास्मै प्रददौ वरान्॥ 7-11-9(45058)
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे।
निर्जित्य पृथिवीपालानावहत्पुष्करेक्षणः॥ 7-11-10(45059)
अमृष्यमाणा राजानो यस्य जात्या हया इव।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः॥ 7-11-11(45060)
जरासन्धं महाबाहुमुपायेन जनार्दनः।
परेण घातयामास समग्राक्षौहिणीपतिम्॥ 7-11-12(45061)
चेदिराजं च विक्रान्तं राजसेनापतिं बली।
अर्घे विवदमानं च जघान पशुवत्तदा॥ 7-11-13(45062)
सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम्।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः॥ 7-11-14(45063)
अङ्गान्वङ्गान्कलिङ्गंश्च मागधान्काशिकोसलान्।
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे॥ 7-11-15(45064)
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्।
काश्मीरकानौरसिकान्पिशाचांश्च समुद्गलान्॥ 7-11-16(45065)
काम्भोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय।
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान्॥ 7-11-17(45066)
नानादिग्भ्यश्च सम्प्राप्तान्खशांश्चैव शकांस्तथा।
जितवान्पुण्डरीकाक्षो यवनं च सहानुगम्॥ 7-11-18(45067)
प्रविश्य मकरावासं यादोगणनिषेवितम्।
जिगाय वरुणं सङ्ख्ये सलिलान्तर्गतं पुरा॥ 7-11-19(45068)
युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम्।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्॥ 7-11-20(45069)
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः॥ 7-11-21(45070)
वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत्॥ 7-11-22(45071)
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्।
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम॥ 7-11-23(45072)
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय।
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति॥ 7-11-24(45073)
यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्।
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमम्॥ 7-11-25(45074)
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः।
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय॥ 7-11-26(45075)
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः।
अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः॥ 7-11-27(45076)
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्।
पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः॥ 7-11-28(45077)
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः।
कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः॥ 7-11-29(45078)
आहूता वृष्णिवीरेण केशवेन महात्मना।
ततः संशयितं सर्वे भवेदिति मतिर्मम॥ 7-11-30(45079)
नागायुतबलो वीरः कैलासशिखरोपमः।
वनमाली हली रामस्तत्र यत्र जनार्दनः॥ 7-11-31(45080)
यमाहुः सर्वपितरं वासुदेवं द्विजातयः।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय॥ 7-11-32(45081)
स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय।
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन॥ 7-11-33(45082)
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्॥ 7-11-34(45083)
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे।
कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम्॥ 7-11-35(45084)
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः।
रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः॥ 7-11-36(45085)
न केनचिदुपायेन कुरूणां दृश्यते जयः।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत॥ 7-11-37(45086)
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती॥ 7-11-38(45087)
सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः।
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः॥ 7-11-39(45088)
मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम्।
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः। 7-11-40(45089)
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्।
पूर्वदेवौ महात्मानौ नरनारायणावुभौ॥ 7-11-41(45090)
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि।
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ॥ 7-11-42(45091)
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः।
युगस्येव विपर्यासो लोकानामिव मोहनम्॥ 7-11-43(45092)
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः।
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च॥ 7-11-44(45093)
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते।
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ॥ 7-11-45(45094)
भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय।
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे॥ 7-11-46(45095)
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह।
मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः॥ 7-11-47(45096)
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत।
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः॥ 7-11-48(45097)
यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ।
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति॥ 7-11-49(45098)
क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते।
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः।
अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम॥ 7-11-50(45099)
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे॥ ॥ 7-11-51(45100)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशोऽध्यायः॥ 11 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-11-6 विक्रमेणैव अस्त्रं चिना॥ 5-11-12 परेण भीमेन॥ 5-11-11 एकादशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.